(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.56. अध्यायः 056
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिराय राजधर्मकथनम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

भीष्म उवाच। 12-56-0x(5472)(66963)
नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर।
प्रशस्यते न राजा हि नारीवोद्यमवर्जितः॥ 12-56-1(66964)
भगवानुशना चाह श्लोकमत्र विशांपते।
तदिहैकमना राजन्गदतस्तं निबोध मे॥ 12-56-2(66965)
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥ 12-56-3(66966)
तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि।
सन्धेयानभिसन्धत्स्व विरोध्यांश्च विरोधय॥ 12-56-4(66967)
सप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत्।
गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः॥ 12-56-5(66968)
मरुत्तेन हि राज्ञा वै गीतः श्लोकः पुरातनः।
राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा॥ 12-56-6(66969)
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते॥ 12-56-7(66970)
बाहोः पुत्रेण राज्ञा च सगरेण च धीमता।
असमञ्जः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा॥ 12-56-8(66971)
असमञ्जः सरय्वां स पौराणां बालकान्नृप।
न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः॥ 12-56-9(66972)
ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः।
मिथ्या विप्रानुपचरन्सन्त्यक्तो दयितः सुतः॥ 12-56-10(66973)
लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः।
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम्॥ 12-56-11(66974)
न हिंस्यात्परवित्तानि देयं काले च दापयेत्।
विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः॥ 12-56-12(66975)
गुप्तमन्त्रो जितक्रोधः शास्त्रार्थकृतनिश्चयः।
धर्मे चार्थे च कामे च मोक्षे च सततं रतः॥ 12-56-13(66976)
त्रय्या संवृतमन्त्रश्च राजा भवितुर्महति।
वृजिनं च नरेन्द्राणां नान्यच्चारक्षणात्परम्॥ 12-56-14(66977)
चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता।
धर्मसंकररक्षा च राज्ञां धर्मः सनातनः॥ 12-56-15(66978)
न विश्वसेच्च नृपतिर्न चात्यर्थं च विश्वसेत्।
षाङ्गुण्यगुणदोषांश्च नित्यं बुद्ध्याऽवलोकयेत्॥ 12-56-16(66979)
अच्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते।
त्रिवर्गे विदितार्थश्च युक्ताचारपथश्च यः॥ 12-56-17(66980)
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः।
वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः॥ 12-56-18(66981)
अभृतानां भवेद्भर्ता भृतानामन्ववेक्षकः।
नृपतिः सुभुखश्च स्यात्स्मितपूर्वाभिभाषिता॥ 12-56-19(66982)
उपासिता ---- जिततन्द्रिरलोलुपः।
सतां वृत्ते स्थितमतिः सतां ह्याचारदर्शनः॥ 12-56-20(66983)
न चाददीत वित्तानि सतां हस्तात्कदाचन।
असभ्द्यश्च समादाय सभ्द्यस्तु प्रतिपादयेत्॥ 12-56-21(66984)
स्वयं प्रहर्ता दाता च वश्यात्मा वश्यसाधनः।
काले दाता च भोक्ता च शुद्धाचारस्तथैव च॥ 12-56-22(66985)
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः।
शिष्टाञ्शिष्टाभिसंबन्धान्मानिनोऽनवमानिनः॥ 12-56-23(66986)
विद्याविदो लोकविदः परलोकान्ववेक्षकान्।
धर्मे च निरतान्साधूनचलानचलानिव। 12-56-24(66987)
सहायान्सततं कुर्याद्राजा भूतिपरिष्कृतान्।
तैश्च तुल्यो भवेद्भोगैश्छत्रमात्राज्ञयाऽधिकः॥ 12-56-25(66988)
प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्समा।
एवं कुर्वन्नरेन्द्रो हि न खेदमिह विन्दति॥ 12-56-26(66989)
सर्वाभिशङ्की नृपतिर्यश्च सर्वहरो भवेत्।
स क्षिप्रमनृर्जुर्लुब्धः स्वजनेनैव बाध्यते॥ 12-56-27(66990)
शुचिस्तु पृथिवीपालो लोकस्यानुग्रहे रतः।
न पतत्यरिभिर्ग्रस्तः पतितश्चाधितिष्ठति॥ 12-56-28(66991)
अक्रोधनो ह्यव्यसनी मृदुदण्डो जितेन्द्रियः।
राजा भवति भूतानां विश्वास्यो हिमवानिव॥ 12-56-29(66992)
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु लालसः।
सुदर्शः सर्ववर्णानां नयापनयवित्तथा॥ 12-56-30(66993)
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः।
अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः॥ 12-56-31(66994)
आरब्धान्येव कार्याणि न पर्यवसितान्यपि।
यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः॥ 12-56-32(66995)
पुत्रा इव पितुर्गेहे विषये यस्य मानवाः।
निर्भया विचरिष्यन्ति स राजा राजसत्तमः॥ 12-56-33(66996)
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः।
नयापनयवेत्तारः स राजा राजसत्तमः॥ 12-56-34(66997)
स्वधर्मनिरता यस्य जना विषयवासिनः।
असङ्घातरता दान्ताः पाल्यमाना यथाविधि॥ 12-56-35(66998)
वश्या यत्ता विनीताश्च न च सङ्घर्षशीलिनः।
विषये दानरुचयो नरा यस्य स पार्थिवः॥ 12-56-36(66999)
न यस्य कूटं कपटं न माया न च मत्सरः।
विषये भूमिपालस्य तस्य धर्मः सनातनः॥ 12-56-37(67000)
यः सत्करोति ज्ञानानि श्रेयान्परहिते रतः।
सतां वर्त्मानुगस्त्यागी स राजा स्वर्गमर्हति॥ 12-56-38(67001)
यस्य चाराश्च मन्त्राश्च नित्यं चैव कृताकृताः।
न ज्ञायन्ते हि रिपुभिः स राजा राज्यमर्हति॥ 12-56-39(67002)
श्लोकद्वयं पुरा गीतं भार्गवेण महात्मना।
आख्याते राजचरिते नृपतिं प्रति भारत॥ 12-56-40(67003)
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्।
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनं॥ 12-56-41(67004)
तद्राज्ये राज्यकामानां नान्यो धर्मः सनातनः।
ऋते रक्षां तु विस्पष्टां रक्षा लोकस्य धारिणी॥ 12-56-42(67005)
प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ।
राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु॥ 12-56-43(67006)
षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्॥ 12-56-44(67007)
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्।
ग्रामकामं च गोपालं वनकामं च नापितम्॥ ॥ 12-56-45(67008)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्पञ्चाशोऽध्यायः॥ 56॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-56-3 अप्रवासिनं वेदाध्ययनार्थम्॥ 12-56-5 सप्त स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि अङ्गानि यस्य तस्य सप्ताङ्गस्य॥ 12-56-12 न हिं स्यात् करार्थं धान्यानि रुद्धा वृष्ट्यादिना न नाशयत्। देय---नम्॥ 12-56-14 वृजिनं संकटं अरक्षणात् मन्त्रस्यागोपनादन्यन्नास्ति॥ 12-56-15 धर्माणां संकरोव्यत्ययस्तस्मात्प्रजानां रक्षा धर्मसंकररक्षा॥ 12-56-16 न विश्वसेत्। चात् विश्वसेदप्याप्तेषु। तेष्वपि अत्यर्थं न विश्वसेत्॥ 12-56-23 शूरान्सहायान् कुर्यादिति तृतीयेनान्वयः। असंहार्यान्परैरप्रतार्यान्। शिष्टाभिसंबन्धान् शिष्टपरिवारान्। अनवमानिनः अवमानं परस्याकुर्वतः॥ 12-56-24 अचलान् स्थिरान् अचलानिवपर्वतानिव॥ 12-56-25 छत्रमात्रेण सहिता या आज्ञा इदमित्थं कुरुइदं नेति तयाधिकः। अन्यत्सर्वं शूरैः समानं भुञ्जीत॥ 12-56-32 सुपर्यवसितानि च इति झ. पाठः॥ 12-56-35 असंघातरताः संघाते शरीरे प्रीतिमन्तो न भवन्ति किंतु तत्साध्ये धर्मे एवेत्यर्थः॥ 12-56-36 संघर्षः पराभिभवस्तच्छीलिनो न॥ 12-56-37 कूटं दम्भः। कपटमनृतम्। मत्सरः परोत्कर्षासहिष्णुत्वम्॥ 12-56-38 ज्ञेये परहिते इति झ. पाठः। ज्ञेयः पौरहिते इति थ. द. पाठः। राज्यमर्हतीति झ. पाठः। ज्ञानानि ज्ञानयुक्तान्पण्डितान्॥ 12-56-39 कृता अप्यकृता इवेति कृताकृताः॥ 12-56-41 प्रथमं श्रेष्ठं असत्यशुभे॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.